प्रस्तुत यमगीता विष्णुपुरासे लिया गया है। यह स्तोत्र यहाँ कलिङ्गके द्वारा भीष्मको जैसा कहा वैसा रखा गया है। मूल यमोक्तपाठ नीले रंगमें प्रकाशति है।
कलिङ्ग उवाच
स्वपुरुषमभिवीक्ष्य पाशहस्तं
वदति यमः किल तस्य कर्ममूले।
परिहर मधुसूदनप्रपन्नान्
प्रभुरहमन्यनृणामवैष्णवानाम्।।1।।
अहममरवरार्चितेन धात्रा
यम इति लोकहिताहिते नियुक्तः।।
हरिगुरुवशगोऽस्मि न स्वतन्त्रः
प्रभवति संयमने ममापि विष्णुः।।2।।
कटकमुकुटकर्णिकादिभेदैः
कनकमभेदमपीष्यते यथैकम्।।
सुरपशुमनुजादिकल्पनाभि-
हरिरखिलाभिर्रुदीर्यते तथैकः।।3।।
हरिरखिलाभिर्रुदीर्यते तथैकः।।3।।
क्षितितलपरमाणवोऽनिलान्ते
पुनरुयान्ति यथैकतां धरित्र्याः।।
सुरपशुमनुजादयस्तथान्ते
गुणकलुषेण सनातनेन तेन।।3।।
पुनरुयान्ति यथैकतां धरित्र्याः।।
सुरपशुमनुजादयस्तथान्ते
गुणकलुषेण सनातनेन तेन।।3।।
हरिममरवरार्चिताङ्घ्रिपद्मं
प्रणमति यः परमार्थतो हि मर्त्यः।।
तमपगतसमस्तपापबन्धं
व्रज परिहृत्य
यथाग्निमाज्यसिक्तम्।।4।।
इति यमवचनं निशम्य पाशी
यमपुरुषस्तमुवाच धर्मराजम्।।
कथय मम विभो समस्तधातु-
र्भवति हरेः खलु यादृशोऽस्य
भक्तः।।5।।
यम उवाच
न चलति निवर्णधर्मतो यः
सममतिरात्मसुहृद्विपक्षपक्षे।।
न हरति न च हन्ति
किञ्चिदुच्चैः
सितमनसं तमवेहि
विष्णुभक्तम्।।6।।
कलिकलुषमलेन यस्य
नात्मा
विमलमतेर्मलिनीकृतस्तमेनम्।।
मनसि कृतजनार्दनं
मनुष्यं
सततमवेहि
हरेरतीवभक्तम्।।7।।
कनकमपि रहस्यवेक्ष्य
बुद्ध्या
तृणमिव यस्समवैति वै
परस्वम्।।
भवति च भगवत्यनन्यचेताः
पुरुषवरं तमवेहि
विष्णुभक्तम्।। 8।।
स्फटिकगिरिशिलामलः क्व
विष्णु-
मनसि नृणां क्व च
मत्सरादिदोषः।।
न हि
तुहिनमयूखरश्मिपुञ्जे
भवति हुताशनदीप्तिजः
प्रतापः।।9।।
विमलमतिरमत्सरः
प्रशान्त-
श्शुचिचरितोऽखिलसत्त्वमित्रभूतः।।
प्रियहितवचनोऽस्तमानमायो
वसति सदा हृदि तस्य
वासुदेवः।।10।।
वसति हृदि सनातने च
तस्मिन्
भवति पुमाञ्जगतोऽस्य सौम्यरूपः।।
क्षितिरसमतिरम्यमात्मनोऽन्तः
कथयति चारुतयैव
शालपोतः।।11।।
यमनियमविधूतमल्मषाणा-
मनुदिनमच्युतसक्तमानसानाम्।।
अपदगतमदमानमत्सराणां
त्यज भट दूरतरेण
मानवानाम्।।12।।
हृदि यदि
भगवाननादिरास्ते
हरिरसिशङ्खगदाधरोऽव्ययात्मा।।
तदघमघविघातकर्त्तृभिन्नं
भवति कथं सति
चान्धकारमर्के।।13।।
हरति परधनं निहन्ति
जन्तून्
वदति तथाऽनृतनिष्ठुराणि
यश्च।।
अशुभजनितदुर्मदस्य
पुंसः
कलुमतेर्हृदि तस्य
नास्त्यनन्तः।।14।।
न सहति परसम्पदं
विनिन्दां
कलुषमतिः कुरुते
सतामसाधुः।।
न यजति न ददाति यश्च
सन्तं
मनसि न तस्य जनार्दनोऽधमस्य।।15।।
परमसुहृदि बान्धवे
कलत्रे
सततनयापितृमातृभृत्यवर्गे।।
शठमतिरुपयाति योऽर्थतृष्णां
तमधमचेष्टमवेहि नास्य
भक्तम्।।16।।
अशुभमतिरसत्प्रवृत्तिसक्त-
स्सततमनार्यकुशीलसंगमत्तः।।
अनुदिनकृतपापबन्धयुक्तः
पुरुषपशुर्न हि
वासुदेवभक्तः।।17।।
सकलमिदमहं च वासुदेवः
परमपुमान्परमेश्वरस्स
एकः।।
इति मतिरचला भवत्यनन्ते
हृदयगते व्रज तान्विहाय
दूरात्।।18।।
कमलनयन वासुदेव विष्णो
धरणिधराच्युत
सङ्खचक्रपाणे।।
भव शरणमितीरयन्ति ये वै
त्यज भट दूरतरेण
तानपापान्।।19।।
वसति मनसि यस्य सोऽव्ययात्मा
परुषवरस्य न तस्य
दृष्टिपाते।।
तव गतिरथ वा ममास्ति
चक्र-
प्रतिहतवीर्यबलस्य सोऽन्यलोक्यः।।20।।
कलिङ्ग उवाच
इति निजभटशासनाय देवो
रवितनयस्स किलाह धर्मराजः।।
मम कथितमिदं च तेन तुभ्यं
कुरुवर सम्यगिदं मयापि चोक्तम्।।21।।
2 टिप्पणियां:
please post hindi meaning...
जी प्रयास रहेगा
एक टिप्पणी भेजें