यह ब्लॉग खोजें
मंगलवार, 17 जनवरी 2017
सोमवार, 16 जनवरी 2017
संकल्प
प्रस्तुत संकल्प लिखनेका मुख्य प्रयोजन सामान्य लाभार्थी के लिये है महा संकल्प तथा विविध अवसरों पर संकल्प का प्रारूप बदल जाता है।
ॐॐॐ
॥सङ्कल्पः॥
ॐ तिथिःविष्णुः तथा वारो नक्षत्रं ग्रहरेव च।। योगश्च
करणञ्चैव सर्वं विष्णुमयं जगत्॥१॥
जले विष्णुः स्थले विष्णुः विष्णुः पर्वतमस्तके॥ ज्वालामालाकुले
विष्णुः सर्वं विष्णुमयं जगत्॥२॥
सूर्यः सोम यमः कालः महाभूतानि
पञ्च च।। शुभाशुभश्च नरसिंहः कर्मणो नव साक्षिणः॥३॥
हरिः ॐ
तत्सत् ॐ तत्सत् ॐ तत्सत् ॐ विष्णुः ॐ विष्णुः ॐ विष्णुः श्रीमद्भग्वतोमहापुरुषस्य विष्णोराज्ञया
प्रवर्तमानस्य सकलजगत्सृष्टिकारिणो ब्रह्मणो द्वितीयपरार्धे श्रीश्वेतवराहकल्पे
वैवश्वतमन्वन्तरे अष्टाविंशतितमे युगे सत्य-त्रेता-द्वापरान्ते कलियुगे
कलिप्रथमचरणे जम्बुद्विपे भारतवर्षे भरतखण्डे आर्यावर्तैकदेशे भारतदेशे (गुडगावॉ-वजिरावाद)
नामके पुण्यक्षत्रे षष्टिसंवत्सराणां मध्ये … नाम
संवत्सरे श्रीसूर्य....ऽयने चन्द्र.... ऽयने .....ऋतौ सौरमानेन......मासे
चान्द्रमानेन......मासे .....पक्षे .....तिथौ ....वासरे ....नक्षत्रे ...योगे
श्रीसूर्ये ... राशिस्थिते चन्द्रमसि ... राशिस्थिते देवगुरौ ...राशिस्थिते
अन्येषु षट्ग्रहेषु यथा यथा राशिस्थानस्थितेषु सत्सु एवं ग्रहगुणगणविशिष्टायां
शुभपुण्यतिथौ अद्येहइह जन्मनि जन्मान्तरे बाल्य-यौवन-पौगण्ड-वार्धक्यादिषु
ज्ञाता-ज्ञात-महापातको-पपातकादि-संचितपापानां ब्रह्महनन-सुरापान-सुवर्णस्तेय-गुरुतल्प-गमनादि-पापानां
रस-कन्या-हय-खरोष्ट्र-दास-अजादिपशु-स्वगृह-जलचरादि-स्थलचरादि-जन्तुविक्रयदोषाणां,
देवस्व-ब्रह्मस्व-राजस्व-हरणदोषाणां ब्रह्मणनिन्दा-गुरुनिन्दा-वेदनिन्दा-शास्त्रनिन्दादिदोषाणां,
भाक्षा-भक्ष-भोज्या-भोज्य-चोष्या-चोष्य-स्पृश्या-स्पृश्यादिदोषाणां, मातृ-पितृ-स्त्री-तिरस्कारजनितदोषाणां
च निवारणपूर्वकं,अस्माकं परिवारस्य सर्वविधरोग-निवारणाय,गृहक्लेशनाशाय,
वैचारिकमेलनाय, बलबुद्धिविद्यालाभाय, क्लेशहरणाय, अकालमृत्युहरणाय,
चौरभयराजभय-निवृत्तये,
विद्याबुद्धिप्राप्तये,
उच्चपदे सर्वकारीय-उद्योगलाभाय, अष्टलक्ष्मी-गृहलक्ष्मी-वैभवलक्ष्म्याः
प्राप्तये, दशदिशानां
बंधननाशाय, जन्मकुण्डल्यां वर्षकुण्डल्यां चतुर्थ-अष्टम-द्वादशस्थानस्थिताः
अशुभग्रहास्तैः संसूचितं संसूचयिष्यमाणं यत् सर्वारिष्टं तद्विनाशद्वारा
एकादशस्थानस्थितवत् शुभफलप्राप्तये, आदित्यादि-नवग्रहानुकूलतासिद्ध्यर्थं,
इन्द्रादिदशदिक्पालदेवताप्रशन्नतार्थं, आधिदैविका-धिभौतकाऽऽध्यात्मिकत्रिविध-तापोपशमनार्थं,
श्रुतिस्मृतिपुराणोक्तफलप्राप्तये, शक्तिभक्तिप्राप्तये, पुत्रपौत्रादिसन्तत्यविच्छिन्नवृद्ध्यर्थं,
अस्मत्-पितॄणां मुक्तये, जगन्नियामकस्य अखण्डकोटिब्रह्माण्डनायकस्य नारायणस्य
अतुलकृपाकटाक्षेण सदा सर्वदा अक्ष्य्यंदीर्घायुःप्रचुरधनव्यापारलाभाय कृतस्य
सुकर्मणः शीघ्रफलावाप्तये गोत्रोत्पन्नैः............. ब्राह्मणैः
..(अमुक)... कर्म अहं करिष्ये अथवा ब्राह्मणद्वारा कारयिष्ये।
तदङ्गत्वेन गौर्यादिदेवानाञ्च पूजनं करिष्ये।
सदस्यता लें
संदेश (Atom)
श्री विष्णु विजय स्तोत्रम् shri vishnu vijay stotram hindi translation पद्म पुराणोक्त विष्णु विजय स्तोत्र हिन्दी व्याख्या
shri vishnu vijay stotram hindie translation श्री विष्णु विजय स्तोत्रम् shri vishnu vijay stotram hindie translation विष्णु विजय स्तोत्र हिन...
-
प्रस्तुत लेख मम्मटके काव्यप्रकाश की झळकीकर टीका के आधार पर बनाये गये सीरीज हैं। इसमें झळकीकर (वामन भट्ट झलकीकर) टीकाके साथ साथ अन्य ...
-
वाच्यसिद्ध्यङ्ग व्यङ्ग्य (गुणीभूतका तृतीय भेद) गुणीभूत व्यङ्ग्यके तृतीय भेद वाच्यसिद्ध्यङ्गम् का लक्षण तथा उदाहरण देते हैं। ...
-
काव्यप्रकाश के मङ्गलाचरण में प्रकाशित काव्य सौन्दर्य वागीश्वरीके अवतार आचार्य मम्मट को जाने विना संस्कृत काव्यशास्त्र अधुरा हो जाता है।...